मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २९, ऋक् ११

संहिता

स्तोमा॑सस्त्वा॒ गौरि॑वीतेरवर्ध॒न्नर॑न्धयो वैदथि॒नाय॒ पिप्रु॑म् ।
आ त्वामृ॒जिश्वा॑ स॒ख्याय॑ चक्रे॒ पच॑न्प॒क्तीरपि॑ब॒ः सोम॑मस्य ॥

पदपाठः

स्तोमा॑सः । त्वा॒ । गौरि॑ऽवीतेः । अ॒व॒र्ध॒न् । अर॑न्धयः । वै॒द॒थि॒नाय॑ । पिप्रु॑म् ।
आ । त्वाम् । ऋ॒जिश्वा॑ । स॒ख्याय॑ । च॒क्रे॒ । पच॑न् । प॒क्तीः । अपि॑बः । सोम॑म् । अ॒स्य॒ ॥

सायणभाष्यम्

हेइन्द्र गौरिवीतेः एतन्नामकस्यमंत्रद्रष्टुर्ममसंबन्धीनिस्तोमासः स्तोत्राणि त्वा त्वां अवर्धन् वर्धयन्तु वैदथिनाय विदथिनःपुत्राय ऋजिश्वनाम्ने पिप्रुंएतन्नामकमसुरं अरंधयः वशमनयः हेइन्द्र ऋजिश्वनामकश्चिदृषिः सख्याय तवसखित्वाय पक्तीःपक्तव्यानि पुरोडाशादीनि पचन् पाकं कुर्वन् त्वा त्वां आचके अभिमुखीचकार किंच त्वं अस्य ऋजिश्वनः संबन्धिनं सोमं अपिबः अपाः ॥ ११ ॥ दशपेयेहनिमरुत्वतीयशस्त्रेनवग्वासइतिसूक्तमुखीया सूत्रितंच-नवग्वासःसुतसोमासइन्द्रंसखाहयत्रसखिभिर्नवग्वै रितिनिविद्धान -योराज्येइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५