मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २९, ऋक् १२

संहिता

नव॑ग्वासः सु॒तसो॑मास॒ इन्द्रं॒ दश॑ग्वासो अ॒भ्य॑र्चन्त्य॒र्कैः ।
गव्यं॑ चिदू॒र्वम॑पि॒धान॑वन्तं॒ तं चि॒न्नरः॑ शशमा॒ना अप॑ व्रन् ॥

पदपाठः

नव॑ऽग्वासः । सु॒तऽसो॑मासः । इन्द्र॑म् । दश॑ऽग्वासः । अ॒भि । अ॒र्च॒न्ति॒ । अ॒र्कैः ।
गव्य॑म् । चि॒त् । ऊ॒र्वम् । अ॒पि॒धान॑ऽवन्तम् । तम् । चि॒त् । नरः॑ । श॒श॒मा॒नाः । अप॑ । व्र॒न् ॥

सायणभाष्यम्

नवग्वासः सत्रयागमनुतिष्ठन्तोयेनवभिर्मासैःसमाप्यगताः तेनवग्वाः दशभिर्मासैःसमाप्ययेगतास्तेदशग्वाः एतेउभयविधाअंगिरसः सुतसोमासः अभिषुतसोमाःसन्तः इन्द्रमर्कैरर्चनीयैःस्तोत्रैरभ्यर्चन्ति अभिष्टुवन्ति तथा शशमानाः स्तुवन्तः नरोनेतारोंगिरसः अपिधानवन्तं बलेनासुरेणाच्छादितवन्तं तंचित् बहुषुप्रदेशेषुप्रसिद्धमपि गव्यंचित् गोसंबंधिनमपि ऊर्वं समूहं अपव्रन् अपावृण्वन् ॥ १२ ॥ परिक्रीनाम्न्येकाहेमरुत्वतीयनिष्केवल्ययोःसूक्तमुखीये कथोनुतइत्याद्येद्वेऋचो सूत्रितंच- कथोनतेपरिचराणिविद्वानितिद्वेइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५