मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २९, ऋक् १३

संहिता

क॒थो नु ते॒ परि॑ चराणि वि॒द्वान्वी॒र्या॑ मघव॒न्या च॒कर्थ॑ ।
या चो॒ नु नव्या॑ कृ॒णवः॑ शविष्ठ॒ प्रेदु॒ ता ते॑ वि॒दथे॑षु ब्रवाम ॥

पदपाठः

क॒थो इति॑ । नु । ते॒ । परि॑ । च॒रा॒णि॒ । वि॒द्वान् । वी॒र्या॑ । म॒घ॒ऽव॒न् । या । च॒कर्थ॑ ।
या । चो॒ इति॑ । नु । नव्या॑ । कृ॒णवः॑ । श॒वि॒ष्ठ॒ । प्र । इत् । ऊं॒ इति॑ । ता । ते॒ । वि॒दथे॑षु । ब्र॒वा॒म॒ ॥

सायणभाष्यम्

हेमघवन् धनवन्निन्द्र त्वं या यानि वीर्या वीर्याणि चकर्थ चकृषे अहं तानि वीर्याणि विद्वान् जानन् ते तुभ्यं कथोनु कथंनु परिचराणी परिचर्यांकरवाणि हेशविष्ठ बलवत्तमेन्द्र याचो यानिचैव नव्या नव्यानि नूतनानि वीर्याणि नु क्षिप्रं कृणवः कुर्याः ते त्वदीयानि ता तानि वीर्याणि विदथेषु यज्ञेषु प्रेदु ब्रवाम प्रैववदाम ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५