मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २९, ऋक् १४

संहिता

ए॒ता विश्वा॑ चकृ॒वाँ इ॑न्द्र॒ भूर्यप॑रीतो ज॒नुषा॑ वी॒र्ये॑ण ।
या चि॒न्नु व॑ज्रिन्कृ॒णवो॑ दधृ॒ष्वान्न ते॑ व॒र्ता तवि॑ष्या अस्ति॒ तस्या॑ः ॥

पदपाठः

ए॒ता । विश्वा॑ । च॒कृ॒ऽवान् । इ॒न्द्र॒ । भूरि॑ । अप॑रिऽइतः । ज॒नुषा॑ । वी॒र्ये॑ण ।
या । चि॒त् । नु । व॒ज्रि॒न् । कृ॒णवः॑ । द॒धृ॒ष्वान् । न । ते॒ । व॒र्ता । तवि॑ष्याः । अ॒स्ति॒ । तस्याः॑ ॥

सायणभाष्यम्

हेइन्द्र अपरीतः शत्रुभिरपरिगतस्त्वं जनुषा जननसिद्धेनात्मीयेनवीर्येणबलेनभूरि भूरीणि बहूनिएता एतानि प्रत्यक्षेणोपलभ्यमानानि विश्वा विश्वानि व्याप्तानि भुवनजातानि चकृवान् कृतवान् हेवज्रिन् वज्रवन्निन्द्र दधुष्वान् सपत्नान् धर्षयंस्त्वं नुक्षिप्रं याचित् यानिच विश्वानि कृणवः कुर्याः तेत्वदीयस्यतस्यास्तविष्याः तस्यबलस्यवर्ता निवारयिता नकोप्यस्ति ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५