मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३०, ऋक् ३

संहिता

प्र नु व॒यं सु॒ते या ते॑ कृ॒तानीन्द्र॒ ब्रवा॑म॒ यानि॑ नो॒ जुजो॑षः ।
वेद॒दवि॑द्वाञ्छृ॒णव॑च्च वि॒द्वान्वह॑ते॒ऽयं म॒घवा॒ सर्व॑सेनः ॥

पदपाठः

प्र । नु । व॒यम् । सु॒ते । या । ते॒ । कृ॒तानि॑ । इन्द्र॑ । ब्रवा॑म । यानि॑ । नः॒ । जुजो॑षः ।
वेद॑त् । अवि॑द्वान् । शृ॒णव॑त् । च॒ । वि॒द्वान् । वह॑ते । अ॒यम् । म॒घऽवा॑ । सर्व॑ऽसेनः ॥

सायणभाष्यम्

हेइन्द्र तेत्वदीयानि यानिकृतानि कर्माणि सन्ति नु अद्यवयं स्तोतारः सुतेसोमे अभिषुतेसति तानिकर्माणिप्रब्रवाम प्रकर्षेणवदाम त्वमपिनोस्मदर्थंयानिकर्माणिजुजोषः असेवथाः तानिकर्माणि अविद्वान् इतःपूर्वमजानन् जनःवेदत् जानातु श्रृणवच्च श्रृणुयाच्च यद्वा विद्वान् जानन् पुरुषःश्रृणवच्च अजानंतमपिजनंश्रावयेच्च सर्वसेनः सर्वाभिः सेनाभिर्युक्तः मघवाधनवान् विद्वान् जानन् अयमिन्द्रःजानतश्चश्रृण्वतश्च तान् जनान् प्रतिवहते अश्वैरुह्यते व्यत्ययेनकर्तृप्रत्ययः प्रापयति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६