मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३०, ऋक् ४

संहिता

स्थि॒रं मन॑श्चकृषे जा॒त इ॑न्द्र॒ वेषीदेको॑ यु॒धये॒ भूय॑सश्चित् ।
अश्मा॑नं चि॒च्छव॑सा दिद्युतो॒ वि वि॒दो गवा॑मू॒र्वमु॒स्रिया॑णाम् ॥

पदपाठः

स्थि॒रम् । मनः॑ । च॒कृ॒षे॒ । जा॒तः । इ॒न्द्र॒ । वेषि॑ । इत् । एकः॑ । यु॒धये॑ । भूय॑सः । चि॒त् ।
अश्मा॑नम् । चि॒त् । शव॑सा । दि॒द्यु॒तः॒ । वि । वि॒दः । गवा॑म् । ऊ॒र्वम् । उ॒स्रिया॑णाम् ॥

सायणभाष्यम्

हेइन्द्र जातःउत्पन्नमात्रएवत्वं स्थिरं चलनरहितंमनश्चित्तंचकृषे चकर्थ सर्वान् बलिष्ठान् जयेयमितीदृशं तथाहेइन्द्र एकइत् असहायएवत्वं युधये युद्धाय भूयसश्चित् बहुतरान्राक्षसादीनपिवेषि अवेः अगमः किंच अश्मानंचित् गवामावरकंपर्वतमपिशवसाबलेनविदिद्युतः व्यभिनः किंच उस्रियाणांक्षीरमुत्सारयन्तीनांगवांधेन् नांऊर्वंसमूहंविदः अवेदयः अलंभयः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६