मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३०, ऋक् ५

संहिता

प॒रो यत्त्वं प॑र॒म आ॒जनि॑ष्ठाः परा॒वति॒ श्रुत्यं॒ नाम॒ बिभ्र॑त् ।
अत॑श्चि॒दिन्द्रा॑दभयन्त दे॒वा विश्वा॑ अ॒पो अ॑जयद्दा॒सप॑त्नीः ॥

पदपाठः

प॒रः । यत् । त्वम् । प॒र॒मः । आ॒ऽजनि॑ष्ठाः । प॒रा॒ऽवति॑ । श्रुत्य॑म् । नाम॑ । बिभ्र॑त् ।
अतः॑ । चि॒त् । इन्द्रा॑त् । अ॒भ॒य॒न्त॒ । दे॒वाः । विश्वाः॑ । अ॒पः । अ॒ज॒य॒त् । दा॒सऽप॑त्नीः ॥

सायणभाष्यम्

यद्यदा हेइन्द्र परः परस्तात् उपरिष्टात् स्थितः परमउत्कृश्टतमस्त्वं परावति दूरे श्रुत्यं श्रवणीयंनामनामधेयंबिभ्रत् धारयन् आजनिष्ठाःआसमंतादजायथाः शेषः परोक्षकृतः अतश्चित् अतआरभ्यैव देवाद्योतमानाःअग्न्यादयः इन्द्रादभयन्त बिभ्युःविश्वाअपः सर्वाण्युदकानि इन्द्रः अजयत् वशीचक्रे कीदृशाः दासपत्नीः दासोवृतः पतिः पालयितायासामपांता ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६