तुभ्येदे॒ते म॒रुतः॑ सु॒शेवा॒ अर्च॑न्त्य॒र्कं सु॒न्वन्त्यन्ध॑ः ।
अहि॑मोहा॒नम॒प आ॒शया॑नं॒ प्र मा॒याभि॑र्मा॒यिनं॑ सक्ष॒दिन्द्र॑ः ॥
तुभ्य॑ । इत् । ए॒ते । म॒रुतः॑ । सु॒ऽशेवाः॑ । अर्च॑न्ति । अ॒र्कम् । सु॒न्वन्ति॑ । अन्धः॑ ।
अहि॑म् । ओ॒हा॒नम् । अ॒पः । आ॒ऽशया॑नम् । प्र । मा॒याभिः॑ । मा॒यिन॑म् । स॒क्ष॒त् । इन्द्रः॑ ॥
एतेमरुतः महद्रवन्तिवदन्तीति मरुतस्तोतारःसुशेवाः शेवमितिसुखनामैतत् शोभनसुखाः सन्तः स्तोत्रेण शोभनं सुखमुत्पादयन्तइत्यर्थः हेइन्द्र तुभ्येत् तुभ्यमेव अर्कमर्चनीयंस्तोत्रं अर्चन्ति स्तुवन्ति कुर्वन्तीत्यर्थः अन्धः सोमलक्षणमन्नंसुन्वन्ति अभिषवंकुर्वन्ति इन्द्रः परमैश्वर्ययुक्तःमायाभिः स्वकीयाभिः शक्तिभिः अहिंवृत्रंप्रसक्षत् अभ्यभवत् कीदृशं ओहानं देवान् बाधमानं अपउदकानि आशयानं आबृत्यनंकुर्वन्तं मायिनं कपटवन्तमिति ॥ ६ ॥