मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३०, ऋक् ९

संहिता

स्त्रियो॒ हि दा॒स आयु॑धानि च॒क्रे किं मा॑ करन्नब॒ला अ॑स्य॒ सेना॑ः ।
अ॒न्तर्ह्यख्य॑दु॒भे अ॑स्य॒ धेने॒ अथोप॒ प्रैद्यु॒धये॒ दस्यु॒मिन्द्र॑ः ॥

पदपाठः

स्त्रियः॑ । हि । दा॒सः । आयु॑धानि । च॒क्रे । किम् । मा॒ । क॒र॒न् । अ॒ब॒लाः । अ॒स्य॒ । सेनाः॑ ।
अ॒न्तः । हि । अख्य॑त् । उ॒भे इति॑ । अ॒स्य॒ । धेने॒ इति॑ । अथ॑ । उप॑ । प्र । ऐ॒त् । यु॒धये॑ । दस्यु॑म् । इन्द्रः॑ ॥

सायणभाष्यम्

दासः उपक्षपयितानमुचिरसुरः स्त्रियः स्त्रीः आयुधानि यद्धसाधनानिचक्रेहि कृतवान् खलुइन्द्रेणसहयोद्धंप्रहितबानित्यर्थः अस्यासुरस्यसंबन्धिन्य अबलाः स्त्रीरूपाः सेनाः मा मां किंकरन् किंकुर्युरितिमन्यमानइन्द्रः तासांमध्येअस्यासुरस्यधेनेप्रीणयित्र्यौ सुरूपे उभेद्वेस्त्रियौ अन्तरख्यद्धि गृहमध्येनिदंधखलु अथानंतरमिन्द्रः दस्यंनमचिं यधये यद्धाय उपप्रैत् उपप्रागच्छत् ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७