मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३०, ऋक् १०

संहिता

समत्र॒ गावो॒ऽभितो॑ऽनवन्ते॒हेह॑ व॒त्सैर्वियु॑ता॒ यदास॑न् ।
सं ता इन्द्रो॑ असृजदस्य शा॒कैर्यदीं॒ सोमा॑स॒ः सुषु॑ता॒ अम॑न्दन् ॥

पदपाठः

सम् । अत्र॑ । गावः॑ । अ॒भितः॑ । अ॒न॒व॒न्त॒ । इ॒हऽइ॑ह । व॒त्सैः । विऽयु॑ताः । यत् । आस॑न् ।
सम् । ताः । इन्द्रः॑ । अ॒सृ॒ज॒त् । अ॒स्य॒ । शा॒कैः । यत् । ई॒म् । सोमा॑सः । सुऽसु॑ताः । अम॑न्दन् ॥

सायणभाष्यम्

यदा गावः वत्सैः वियुताआसन् वियुक्ताअभवन् अत्रास्मिन्काले अभितः सर्वतोनमुचिनापहृतागावः इहेह इहचेहचसर्वतः समनवन्त अत्यन्तमगच्छन् यत् यदा सुषुताः बभ्रुनाम्नाऋषिणासुष्ठ्वभिषुताः सोमासः सोमाः ईमेनमिन्द्रं अमन्दन् अमादयन् तदाइन्द्रः शाकैः शक्तैर्मरुद्भिः सह अस्यबभ्रोःसंबन्धीर्नमुचिनापहृतास्तागाः समसृजत् वत्सैः सह समयोजयत् ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७