मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३०, ऋक् ११

संहिता

यदीं॒ सोमा॑ ब॒भ्रुधू॑ता॒ अम॑न्द॒न्नरो॑रवीद्वृष॒भः साद॑नेषु ।
पु॒रं॒द॒रः प॑पि॒वाँ इन्द्रो॑ अस्य॒ पुन॒र्गवा॑मददादु॒स्रिया॑णाम् ॥

पदपाठः

यत् । ई॒म् । सोमाः॑ । ब॒भ्रुऽधू॑ताः । अम॑न्दन् । अरो॑रवीत् । वृ॒ष॒भः । साद॑नेषु ।
पु॒र॒म्ऽद॒रः । प॒पि॒ऽवान् । इन्द्रः॑ । अ॒स्य॒ । पुनः॑ । गवा॑म् । अ॒द॒दा॒त् । उ॒स्रिया॑णाम् ॥

सायणभाष्यम्

यद्यदाबभ्रुधूताः बभ्रुणाभिषुताःसीमाः ईमेनमिन्द्रं अमन्दन् अमादयन् तदावृषभःकामानांवर्षितेन्द्रः सदनेषु युद्धेषु अरोरवीत् अत्यर्थंशब्दमकरोत् पुरंदरः पुरांदारयिता अस्येमंसोमंपपिवान् पीतवान् इन्द्रः पुनःउस्रियाणांक्षीरमुत्स्राविणीःगवांगाः अददात् बभ्रवेददौ ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८