मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३०, ऋक् १२

संहिता

भ॒द्रमि॒दं रु॒शमा॑ अग्ने अक्र॒न्गवां॑ च॒त्वारि॒ दद॑तः स॒हस्रा॑ ।
ऋ॒णं॒च॒यस्य॒ प्रय॑ता म॒घानि॒ प्रत्य॑ग्रभीष्म॒ नृत॑मस्य नृ॒णाम् ॥

पदपाठः

भ॒द्रम् । इ॒दम् । रु॒शमाः॑ । अ॒ग्ने॒ । अ॒क्र॒न् । गवा॑म् । च॒त्वारि॑ । दद॑तः । स॒हस्रा॑ ।
ऋ॒ण॒म्ऽच॒यस्य॑ । प्रऽय॑ता । म॒घानि॑ । प्रति॑ । अ॒ग्र॒भी॒ष्म॒ । नृऽत॑मस्य । नृ॒णाम् ॥

सायणभाष्यम्

रुशमइतिकश्चिज्जनपदविशेषः अत्ररुशमशब्देनतत्रत्याजनाउच्यन्ते रुशमाः ऋणंचयनाम्नोराज्ञःकिंकराः हेअग्ने भद्रंकल्याणमिदंकर्म अक्रन् अकुर्वन् कीदृशाः गवांधेनूनांचत्वारि चतुःसंख्यायुक्तानि सहस्रासहस्राणि ददतः मह्यंप्रयच्छतः राज्ञाहिदीयमानानिधनानि राजपुरुषाएवप्रयच्छन्तीत्यर्थः नरांनेतॄणांमध्येनृतमस्य अतिशयेननेतृतमस्य ऋणंचयस्य एतन्नामकेनराज्ञाप्रयताप्रयतानिदत्तनिमघानि गोरूपाणिधनानि वयं प्रत्यग्रभीष्म प्रतिगृहीतवन्तःस्मपूजार्थंबहुवचनम् ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८