मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३०, ऋक् १४

संहिता

औच्छ॒त्सा रात्री॒ परि॑तक्म्या॒ याँ ऋ॑णंच॒ये राज॑नि रु॒शमा॑नाम् ।
अत्यो॒ न वा॒जी र॒घुर॒ज्यमा॑नो ब॒भ्रुश्च॒त्वार्य॑सनत्स॒हस्रा॑ ॥

पदपाठः

औच्छ॑त् । सा । रात्री॑ । परि॑ऽतक्म्या । या । ऋ॒ण॒म्ऽच॒ये । राज॑नि । रु॒शमा॑नाम् ।
अत्यः॑ । न । वा॒जी । र॒घुः । अ॒ज्यमा॑नः । ब॒भ्रुः । च॒त्वारि॑ । अ॒स॒न॒त् । स॒हस्रा॑ ॥

सायणभाष्यम्

रुशमानां रुशमनाम्नांजनानांराजनिप्रभौ ऋणंचये एतत्संज्ञके तत्समीपएवयारात्रिः परितक्म्या परितोगंत्रीभवति सारात्री औच्छत् व्युष्टाअभवत् अत्यः सततगामी वाजीन अश्वइव रघुः शीघ्रगामी अज्यमानः प्रेर्यमाणः बभ्रुः एतन्नामकऋषिः चत्वारि चतुःसंख्याकानि सहस्रा सहस्राणि गोरूपाणिधनानि असनत् अलभत ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८