चतु॑ःसहस्रं॒ गव्य॑स्य प॒श्वः प्रत्य॑ग्रभीष्म रु॒शमे॑ष्वग्ने ।
घ॒र्मश्चि॑त्त॒प्तः प्र॒वृजे॒ य आसी॑दय॒स्मय॒स्तम्वादा॑म॒ विप्रा॑ः ॥
चतुः॑ऽसहस्रम् । गव्य॑स्य । प॒श्वः । प्रति॑ । अ॒ग्र॒भी॒ष्म॒ । रु॒शमे॑षु । अ॒ग्ने॒ ।
घ॒र्मः । चि॒त् । त॒प्तः । प्र॒ऽवृजे॑ । यः । आसी॑त् । अ॒य॒स्मयः॑ । तम् । ऊं॒ इति॑ । आदा॑म । विप्राः॑ ॥
हेअग्ने वयं रुशमेषु एतत्संज्ञकेषुजनेषु गव्यस्य गवात्मकस्यपश्वःपशोः पशूनां जातावेकवचनं चतुःसहस्रं चत्वारिसहस्राणि प्रत्यग्रभीष्म प्रतिगृहीतवन्तःस्म प्रवृजे प्रवृंजनार्थं तप्तः संतप्तः शॊभनवर्णोघर्मश्चित् महावीरइव अयस्मयः अयोमयः हिरण्मयोयःकलशआसीत् अभवत् तमुदोहनार्थं कलशंच विप्रामेधाविनोवयंरुशमेषुआदाम आदत्तवन्तः ॥ १५ ॥
इन्द्रोरथायेतित्रयोदशर्चंसप्तदशंसूक्तं अवस्युर्नामात्रेयऋषिः त्रिष्टुप् छन्दः इन्द्रोदेवता उग्रमयातंसंहयद्वामितिपादयोः क्रमेणकुत्सोशनसौविकल्पेनदेवता इन्दाकुत्सावहमानेत्यस्याइन्द्रः कुत्सश्च तथाचानुक्रान्तंइन्द्रोरथायसप्तोनावस्यु रुग्रमितिकौत्स्यौ -शनसौवापादौपरैन्द्राकौत्सीति । विनियोगोलैंगिकः ।