मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३१, ऋक् १

संहिता

इन्द्रो॒ रथा॑य प्र॒वतं॑ कृणोति॒ यम॒ध्यस्था॑न्म॒घवा॑ वाज॒यन्त॑म् ।
यू॒थेव॑ प॒श्वो व्यु॑नोति गो॒पा अरि॑ष्टो याति प्रथ॒मः सिषा॑सन् ॥

पदपाठः

इन्द्रः॑ । रथा॑य । प्र॒ऽवत॑म् । कृ॒णो॒ति॒ । यम् । अ॒धि॒ऽअस्था॑त् । म॒घऽवा॑ । वा॒ज॒ऽयन्त॑म् ।
यू॒थाऽइ॑व । प॒श्वः । वि । उ॒नो॒ति॒ । गो॒पाः । अरि॑ष्टः । या॒ति॒ । प्र॒थ॒मः । सिसा॑सन् ॥

सायणभाष्यम्

मघवा धनवानिन्द्रः वाजयन्तमन्नमिच्छन्तं यं रथं अध्यस्थादधितिष्ठति तस्मैरथाय प्रवतं प्रवणमाजिंकृणोति करोति अपिच गोपाः गोपालः पश्वोयूथेव पशोःपशूनांयूथानियथाव्युनोतिप्रेरयति तथा शत्रुसैन्यानिप्रेरयति अरिष्टः शत्रुभिःस्वयमहिंसितः प्रथमोदेवानां मुख्यः इन्द्रः सिषासन् शत्रुधनानीच्छन् याति गच्छति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९