मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३१, ऋक् २

संहिता

आ प्र द्र॑व हरिवो॒ मा वि वे॑न॒ः पिश॑ङ्गराते अ॒भि नः॑ सचस्व ।
न॒हि त्वदि॑न्द्र॒ वस्यो॑ अ॒न्यदस्त्य॑मे॒नाँश्चि॒ज्जनि॑वतश्चकर्थ ॥

पदपाठः

आ । प्र । द्र॒व॒ । ह॒रि॒ऽवः॒ । मा । वि । वे॒नः॒ । पिश॑ङ्गऽराते । अ॒भि । नः॒ । स॒च॒स्व॒ ।
न॒हि । त्वत् । इ॒न्द्र॒ । वस्यः॑ । अ॒न्यत् । अस्ति॑ । अ॒मे॒नान् । चि॒त् । जनि॑ऽवतः । च॒क॒र्थ॒ ॥

सायणभाष्यम्

हेहरिवः हरिवन्निन्द्र त्वं आ अस्मानभिमुखं प्रद्रव प्रकर्षेणगच्छ किन्तु माविवेनः वेनतिःकान्तिकर्मा अस्मासुविगतकामोमाभूः किंच हेपिशंगराते बहुरूपधनेन्द्र नोस्मानभिसचस्व अभिसेवस्व अपिच हेइन्द्र वस्योवसीयः श्रेयस्करं त्वत् त्वत्तः अन्यन्नह्यस्ति अन्यद्वसुजातंनास्ति अमेनांश्चित् मेनाशब्दःस्त्रीवाची अपगतस्त्रीकांश्चित् जनिवतः जायावतश्चकर्थ करोषि ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९