मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३१, ऋक् ३

संहिता

उद्यत्सह॒ः सह॑स॒ आज॑निष्ट॒ देदि॑ष्ट॒ इन्द्र॑ इन्द्रि॒याणि॒ विश्वा॑ ।
प्राचो॑दयत्सु॒दुघा॑ व॒व्रे अ॒न्तर्वि ज्योति॑षा संववृ॒त्वत्तमो॑ऽवः ॥

पदपाठः

उत् । यत् । सहः॑ । सह॑सः । आ । अज॑निष्ट । देदि॑ष्टे । इन्द्रः॑ । इ॒न्द्रि॒याणि॑ । विश्वा॑ ।
प्र । अ॒चो॒द॒य॒त् । सु॒ऽदुघाः॑ । व॒व्रे । अ॒न्तः । वि । ज्योति॑षा । स॒म्ऽव॒वृ॒त्वत् । तमः॑ । अ॒व॒रित्य॑वः ॥

सायणभाष्यम्

यद्यदा सहः सूर्यसंबन्धितेजः सहसःउषः संबन्धिनस्तेजसः उदाजनिष्ट उपरिष्टात्प्रादुर्बभूव तदाइन्द्रः विश्वा विश्वानि सर्वाणि इन्द्रियाणिधनानि इन्द्रियमितिधननामैतत् देदिष्टे यजमानेभ्योदिशती वव्रे निवारकेपर्वते अन्तर्मध्येबलेननिरुद्धाः सुदुघाः सुष्ठुदोग्ध्रीर्गाः प्राचोदयत् प्रैरयत् ज्योतिषातेजसासंववृत्वत् संवरणशीलंतमः विवः निवारितवान् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९