मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३१, ऋक् ६

संहिता

प्र ते॒ पूर्वा॑णि॒ कर॑णानि वोचं॒ प्र नूत॑ना मघव॒न्या च॒कर्थ॑ ।
शक्ती॑वो॒ यद्वि॒भरा॒ रोद॑सी उ॒भे जय॑न्न॒पो मन॑वे॒ दानु॑चित्राः ॥

पदपाठः

प्र । ते॒ । पूर्वा॑णि । कर॑णानि । वो॒च॒म् । प्र । नूत॑ना । म॒घ॒ऽव॒न् । या । च॒कर्थ॑ ।
शक्ति॑ऽवः । यत् । वि॒ऽभराः॑ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । जय॑न् । अ॒पः । मन॑वे । दानु॑ऽचित्राः ॥

सायणभाष्यम्

हेइन्द्र तेत्वदीयानि पूर्वाणि पुरातनानि करणानि कर्माणि प्रवोचं अहंप्रकर्षेणाब्रवीमि नूतना नूतनानि नवानिकर्माणिप्रवोचं प्रब्रवीमि हेमघवन्धनवन्निन्द्र या यानिकर्माणिच कर्थ कृतवानसि तानिप्रवोचमितिसंबन्धः हेशक्तीवः शक्तिमन् शक्तिर्वज्रंकर्मवातद्वन्निन्द्र यत् यस्त्वंउभेरोदसी द्यावापृथिव्यौ जयन् वशीकुर्वन् अपः उदकानि मनवेमनुष्याय विभराः विविच्यबिभर्षि कीदृशीः दानुचित्राः चित्रदानाः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०