मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३१, ऋक् ७

संहिता

तदिन्नु ते॒ कर॑णं दस्म वि॒प्राहिं॒ यद्घ्नन्नोजो॒ अत्रामि॑मीथाः ।
शुष्ण॑स्य चि॒त्परि॑ मा॒या अ॑गृभ्णाः प्रपि॒त्वं यन्नप॒ दस्यूँ॑रसेधः ॥

पदपाठः

तत् । इत् । नु । ते॒ । कर॑णम् । द॒स्म॒ । वि॒प्र॒ । अहि॑म् । यत् । घ्नन् । ओजः॑ । अत्र॑ । अमि॑मीथाः ।
शुष्ण॑स्य । चि॒त् । परि॑ । मा॒याः । अ॒गृ॒भ्णाः॒ । प्र॒ऽपि॒त्वम् । यन् । अप॑ । दस्यू॑न् । अ॒से॒धः॒ ॥

सायणभाष्यम्

हेदस्म दर्शनीयावय मेधाविन्निन्द्र त्वं अत्रास्मिन् लोके अहिंवृत्रमसुरंघ्नन् हिंसन् यदोजोयद्बलंअमिमीथाः प्रकाशितवानसि तदिन्नु तत् खलु ते त्वदीयंकरणंकर्मविद्यते अपिच शुष्णस्यचित् एतन्नामकस्याप्यसुरस्यसंबंधिनीर्मायाः युवतीःपर्यगृभ्णाः परिगृहीतवानसि हेइन्द्र त्वंप्रपित्वं संग्रामं समीपंवायन् प्राप्नुवन् दस्यून् असुरान् अपासेधः अपवाधथाः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०