मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३१, ऋक् ८

संहिता

त्वम॒पो यद॑वे तु॒र्वशा॒यार॑मयः सु॒दुघा॑ः पा॒र इ॑न्द्र ।
उ॒ग्रम॑यात॒मव॑हो ह॒ कुत्सं॒ सं ह॒ यद्वा॑मु॒शनार॑न्त दे॒वाः ॥

पदपाठः

त्वम् । अ॒पः । यद॑वे । तु॒र्वशा॒य । अर॑मयः । सु॒ऽदुघाः॑ । पा॒रः । इ॒न्द्र॒ ।
उ॒ग्रम् । अ॒या॒त॒म् । अव॑हः । ह॒ । कुत्स॑म् । सम् । ह॒ । यत् । वा॒म् । उ॒शना॑ । अर॑न्त । दे॒वाः ॥

सायणभाष्यम्

हेइन्द्र त्वं पारे नदीनांतीरे प्रवृद्धइतिशेषः सुदुघाः ओषधिवनस्पतीन् सुष्ठुदुहतीः अपउदकानियदवे यदुनामकायराज्ञे तुर्वशाय एतन्नामकायराज्ञेच अरमयः रमितवानसि हे इन्द्र युवां त्वं कुत्सश्चेतिशेषः उग्रं उद्गूर्णं शुष्णं अयातं अगच्छतं तदनंतरं त्वं शुष्णंहत्वा कुत्समवहोह स्वगृहंप्रापितवानसिखलु यद्यदा वां युवां इन्द्राकुत्सौउशनाभार्गवौ देवाश्च समरन्तह संभेजिरेखलु ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०