मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३१, ऋक् ९

संहिता

इन्द्रा॑कुत्सा॒ वह॑माना॒ रथे॒ना वा॒मत्या॒ अपि॒ कर्णे॑ वहन्तु ।
निः षी॑म॒द्भ्यो धम॑थो॒ निः ष॒धस्था॑न्म॒घोनो॑ हृ॒दो व॑रथ॒स्तमां॑सि ॥

पदपाठः

इन्द्रा॑कुत्सा । वह॑माना । रथे॑न । आ । वा॒म् । अत्याः॑ । अपि॑ । कर्णे॑ । व॒ह॒न्तु॒ ।
निः । सी॒म् । अ॒त्ऽभ्यः । धम॑थः । निः । स॒धऽस्था॑त् । म॒घोनः॑ । हृ॒दः । व॒र॒थः॒ । तमां॑सि ॥

सायणभाष्यम्

हेइन्द्राकुत्सा इन्द्राकुत्सौ रथेनवहमानावहमानौ उह्यमानौ वां युवां अत्याःअश्वाः कर्णेपि स्तोत्राणिकृणोतिकरोतीतिकर्णः स्तोता यजमानोवा तत्समीपेअपीतियावत् आवहन्तु आसमन्ताद्वाहकाभवन्तु युवामपि अद्भ्योप्सुप्रविष्टंसीमेनंशुष्णासुरंनिर्धमथः अबाधेथां सीमिति शुष्णासुरोबुद्धिस्थः परामृश्यते सधस्थात् स्वकीयात् स्थानात् निरबाधेथाम् मघोनोमघवतोहविष्मतोयजमनस्य -हृदोहृदयात्तमांस्यज्ञानरूपाणि पापानि वरथोनिवारय थः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०