मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३१, ऋक् १०

संहिता

वात॑स्य यु॒क्तान्त्सु॒युज॑श्चि॒दश्वा॑न्क॒विश्चि॑दे॒षो अ॑जगन्नव॒स्युः ।
विश्वे॑ ते॒ अत्र॑ म॒रुत॒ः सखा॑य॒ इन्द्र॒ ब्रह्मा॑णि॒ तवि॑षीमवर्धन् ॥

पदपाठः

वात॑स्य । यु॒क्तान् । सु॒ऽयुजः॑ । चि॒त् । अश्वा॑न् । क॒विः । चि॒त् । ए॒षः । अ॒ज॒ग॒न् । अ॒व॒स्युः ।
विश्वे॑ । ते॒ । अत्र॑ । म॒रुतः॑ । सखा॑यः । इन्द्र॑ । ब्रह्मा॑णि । तवि॑षीम् । अ॒व॒र्ध॒न् ॥

सायणभाष्यम्

कविश्चित्प्राज्ञोपि अवस्युरेतन्नामकएषमंत्रद्रष्टावा तस्यवायोर्वेगेनयुक्तान् संयुक्तान् सुयुजश्चित् सुष्ठुयोजनीयानश्वान् अजगन् प्राप्नोत् अवस्योःसखायः विश्वेसर्वेमरुतोबहवः स्तोतारः हेइन्द्र अत्रास्मिन् लोके तेत्वदीयां तविषीं बलं ब्रह्माणि ब्रह्मभिःस्तोत्रैः अवर्धन्नवर्धयन् ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०