मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३१, ऋक् ११

संहिता

सूर॑श्चि॒द्रथं॒ परि॑तक्म्यायां॒ पूर्वं॑ कर॒दुप॑रं जूजु॒वांस॑म् ।
भर॑च्च॒क्रमेत॑श॒ः सं रि॑णाति पु॒रो दध॑त्सनिष्यति॒ क्रतुं॑ नः ॥

पदपाठः

सूरः॑ । चि॒त् । रथ॑म् । परि॑ऽतक्म्यायाम् । पूर्व॑म् । क॒र॒त् । उप॑रम् । जू॒जु॒ऽवांस॑म् ।
भर॑त् । च॒क्रम् । एत॑शः । सम् । रि॒णा॒ति॒ । पु॒रः । दध॑त् । स॒नि॒ष्य॒ति॒ । क्रतु॑म् । नः॒ ॥

सायणभाष्यम्

इन्द्रः परितक्म्यायां संग्रमेपरितोगच्छन्त्यस्यांभयइतिपरितक्म्या संग्रामः तस्मिन् एतशाख्येनऋषिणासहयोद्धुःसूरश्चित् सूर्यस्यापिसंबन्धिनं जूजुवांसं वेगेनगच्छन्तं रथं उपरं उपरतव्यापारंपूर्वंकरत् पुराकरोत् एतशःएतशाय विभक्तिव्यत्ययः इन्द्रः पूर्वंद्विचक्रस्यरथस्य एकंचक्रंभरत् अहरत् सइन्द्रः तेनचक्रेणासुरान् संरिणाति हिनस्ति अपिच पुरोदधत् अस्मान् पुरस्कुर्वन् नोस्मदीयंक्रतुंयज्ञंसनिष्यति संभजतु ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१