मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३१, ऋक् १३

संहिता

ये चा॒कन॑न्त चा॒कन॑न्त॒ नू ते मर्ता॑ अमृत॒ मो ते अंह॒ आर॑न् ।
वा॒व॒न्धि यज्यूँ॑रु॒त तेषु॑ धे॒ह्योजो॒ जने॑षु॒ येषु॑ ते॒ स्याम॑ ॥

पदपाठः

ये । चा॒कन॑न्त । चा॒कन॑न्त । नु । ते । मर्ताः॑ । अ॒मृ॒त॒ । मो इति॑ । ते । अंहः॑ । आ । अ॒र॒न् ।
व॒व॒न्धि । यज्यू॑न् । उ॒त । तेषु॑ । धे॒हि॒ । ओजः॑ । जने॑षु । येषु॑ । ते॒ । स्याम॑ ॥

सायणभाष्यम्

हेइन्द्र धनार्थंयेजनाः त्वांचाकनन्त अकामयन्त पुनश्चते नु क्षिप्रमेवत्वां चाकनन्त हेअमृत अमरणशीलेन्द्र मर्ताः मरणधर्माणस्तेजनाः अंहोनर्थं मोआरन् मागमन् माउइतिनिपातसमुदायोमेत्येकनिपातार्थेवर्तते उतापिच यज्यून् यजमानान् ववन्धि संभजस्व येषुजनेषु येषांजनानांमध्ये वयंस्तोतारः तेत्वदीयाःस्याम भवाम हेइन्द्र त्वंतेषुजनेषु ओजोबलंधेहि ॥ १३ ॥

अदर्दरुत्समितिद्वादशर्चमष्टादशंसूक्तं गातुर्नामात्रेयऋषिः त्रिष्टुप् छन्दः इन्द्रोदेवता तथाचानुक्रान्तं-अदर्दर्द्वादशगातुरिति । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१