मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३२, ऋक् ३

संहिता

त्यस्य॑ चिन्मह॒तो निर्मृ॒गस्य॒ वध॑र्जघान॒ तवि॑षीभि॒रिन्द्र॑ः ।
य एक॒ इद॑प्र॒तिर्मन्य॑मान॒ आद॑स्माद॒न्यो अ॑जनिष्ट॒ तव्या॑न् ॥

पदपाठः

त्यस्य॑ । चि॒त् । म॒ह॒तः । निः । मृ॒गस्य॑ । वधः॑ । ज॒घा॒न॒ । तवि॑षीभिः । इन्द्रः॑ ।
यः । एकः॑ । इत् । अ॒प्र॒तिः । मन्य॑मानः । आत् । अ॒स्मा॒त् । अ॒न्यः । अ॒ज॒नि॒ष्ट॒ । तव्या॑न् ॥

सायणभाष्यम्

इन्द्रोमहतः प्रभूतस्यमृगस्यमृगवच्छीघ्रगामिनः त्यस्यचित् तस्यवृत्रस्यसंबन्धि वधरायुधंतविषीभिः स्वकीयैर्बलैर्निर्जघान निःशेषेणावधीत् एकइत् असहायएव अप्रतिः प्रतिद्वंद्विरहितः मन्यमानाः आत्मानंयोस्तीतिशेषः आत् तदानींअस्मात्वृत्रात् तव्यान् प्रवृद्धतरोन्योसुरः अजनिष्ट प्रादुरभूत् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२