मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३२, ऋक् १२

संहिता

ए॒वा हि त्वामृ॑तु॒था या॒तय॑न्तं म॒घा विप्रे॑भ्यो॒ दद॑तं शृ॒णोमि॑ ।
किं ते॑ ब्र॒ह्माणो॑ गृहते॒ सखा॑यो॒ ये त्वा॒या नि॑द॒धुः काम॑मिन्द्र ॥

पदपाठः

ए॒व । हि । त्वाम् । ऋ॒तु॒ऽथा । या॒तय॑न्तम् । म॒घा । विप्रे॑भ्यः । दद॑तम् । शृ॒णोमि॑ ।
किम् । ते॒ । ब्र॒ह्माणः॑ । गृ॒ह॒ते॒ । सखा॑यः । ये । त्वा॒ऽया । नि॒ऽद॒धुः । काम॑म् । इ॒न्द्र॒ ॥

सायणभाष्यम्

एवएवमुक्तेनप्रकारेण हि ऋतुथा कालेकालेयातयन्तं जंतून् प्रेरयन्तं हेइन्द्र त्वां विप्रेभ्यः स्तोतृभ्यः मघा मघानि धनानि ददतंफ़् यच्छन्तं श्रृणोमि निशामयामि एतन्मृषैवप्रतिभाति हेइन्द्र त्र्वाया त्वयि येस्तोतारः कामंस्वकीयाभिलाषंनिदधुः न्यक्षिपन् ब्रह्माणोबृहन्तःतेत्वदीयाः सखायः स्तोतारः किं गृहते त्वत्तः किंगृह्णन्ते ऋषिः स्वकीयाभिला षप्राप्तिविलंबनादेवमुक्तवानित्यर्थः ॥ १२ ॥

वेदार्थस्यप्रकाशेनतमोहा र्दंनिवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेणसायणाचार्येणविरचितेमाधवीयेवेदार्थप्रकाशे ऋक्संहिताभाष्येचतुर्थाष्टकेप्रथमोध्यायः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३