मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३३, ऋक् १

संहिता

महि॑ म॒हे त॒वसे॑ दीध्ये॒ नॄनिन्द्रा॑ये॒त्था त॒वसे॒ अत॑व्यान् ।
यो अ॑स्मै सुम॒तिं वाज॑सातौ स्तु॒तो जने॑ सम॒र्य॑श्चि॒केत॑ ॥

पदपाठः

महि॑ । म॒हे । त॒वसे॑ । दी॒ध्ये॒ । नॄन् । इन्द्रा॑य । इ॒त्था । त॒वसे॑ । अत॑व्यान् ।
यः । अ॒स्मै॒ । सु॒ऽम॒तिम् । वाज॑ऽसातौ । स्तु॒तः । जने॑ । स॒ऽम॒र्यः॑ । चि॒केत॑ ॥

सायणभाष्यम्

य्स्यनिःश्वसितंवेदायोवेदेभ्योखिलंजगत् । निर्ममेतमहंवन्देविद्यातीर्थमहेश्वरम् ॥ १ ॥

चतुर्थेप्रथमाध्यायंव्याख्यायव्याकृतिक्षमः । सुधीःश्रीसायणाचार्योद्वितीयंव्याचिकीर्षति ॥ २ ॥

तत्रात्रेः पंचमेमंडलेतृतीयेनुवाकेद्वादशसूक्तानि तत्रमहिमहइतिदशर्चंप्रथमंसूक्तं प्रजापतिपुत्रः संवरणऋषिः त्रिष्टुप् छन्दः इन्द्रोदेवता तथाचानुक्रान्तं – महिदशप्राजापत्यः संवरणइति । विनियोगोलैंगिकः ।

अहंसंवरणः अतव्यान् अत्यन्तमिवदुर्बलः सन् महि महत् प्रभूतंस्तोत्रं महे महते तवसे बलवतइन्द्रायेत्था इत्थंवक्ष्यमाणप्रकारेणदीध्ये दीपयामि प्रकाशयामि किमर्थं नॄन् षष्ठ्यर्थेद्वितीया मनुष्याणामस्मदीयानांत्वसेबलाय यद्वा नॄनस्मद्विरोधिनामभिभवायेतिशेषः तदर्थंतवसेस्मद्बलाय इन्द्रोस्मैजने जनायसंवरणाय वाजसातौ संग्रामे वाजस्यान्नस्यवालाभेनिमित्तेसतिस्तुतः सन् सुमतिं समर्थः मर्त्यैः स्तोतृभिः सहितः यद्वा सहम्रियमाणैर्युध्यमानैर्मरुदादिभिः अथवा समरार्हः चिकेत जानाति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः