स त्वं न॑ इन्द्र धियसा॒नो अ॒र्कैर्हरी॑णां वृष॒न्योक्त्र॑मश्रेः ।
या इ॒त्था म॑घव॒न्ननु॒ जोषं॒ वक्षो॑ अ॒भि प्रार्यः स॑क्षि॒ जना॑न् ॥
सः । त्वम् । नः॒ । इ॒न्द्र॒ । धि॒य॒सा॒नः । अ॒र्कैः । हरी॑णाम् । वृ॒ष॒न् । योक्त्र॑म् । अ॒श्रेः॒ ।
याः । इ॒त्था । म॒घ॒ऽव॒न् । अनु॑ । जोष॑म् । वक्षः॑ । अ॒भि । प्र । अ॒र्यः । स॒क्षि॒ । जना॑न् ॥
हेवृषन् वर्षकेन्द्र सप्रसिद्धस्त्वंनोस्मान्धियसानोध्यायन् अर्कैरर्चनसाधनैः स्तोत्रैर्निमित्तभूतैः हरीणांथेनियोज्यानामश्वानां -योक्त्रंनियोजनरज्जुमश्रेःआश्रयसि याः लिंगव्यत्ययः यानर्कान् हेभघवन् इत्थाइत्थं जोषं प्रीतिं अनुवक्षोऽवहस्तैर्निमित्तैर्योक्त्रमश्रेरिति तथाकृत्वा अर्योस्मदरीन् जनान् अभि आभिमुख्येन प्र प्रकृष्टं सक्षि पराभव ॥ २ ॥