मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३३, ऋक् ३

संहिता

न ते त॑ इन्द्रा॒भ्य१॒॑स्मदृ॒ष्वायु॑क्तासो अब्र॒ह्मता॒ यदस॑न् ।
तिष्ठा॒ रथ॒मधि॒ तं व॑ज्रह॒स्ता र॒श्मिं दे॑व यमसे॒ स्वश्व॑ः ॥

पदपाठः

न । ते । ते॒ । इ॒न्द्र॒ । अ॒भि । अ॒स्मत् । ऋ॒ष्व॒ । अयु॑क्तासः । अ॒ब्र॒ह्मता॑ । यत् । अस॑न् ।
तिष्ठ॑ । रथ॑म् । अधि॑ । तम् । व॒ज्र॒ऽह॒स्त॒ । आ । र॒श्मिम् । दे॒व॒ । य॒म॒से॒ । सु॒ऽअश्वः॑ ॥

सायणभाष्यम्

हेऋष्व महन् इन्द्र यत् ये अस्मदस्मत्तः त्वद्भक्तेभ्योन्ये अयुक्तासः त्वया असंयुक्ताअसन् आसन् अभवन् अब्रह्मता ब्रह्मपरिवृढंकर्मतद्रहितत्वात् तेनरास्तेत्वदीयानभवन्ति अतोस्मद्यज्ञमभ्यागन्तुं तं प्रसिद्धं रथं अधितिष्ठ हेवज्रह्स्तेन्द्र देव स्वश्वः त्वंयंरथमारोढुंरश्मिंप्रग्रहं आयमसे नियमयसितमधितिष्ठ ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः