मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३३, ऋक् ४

संहिता

पु॒रू यत्त॑ इन्द्र॒ सन्त्यु॒क्था गवे॑ च॒कर्थो॒र्वरा॑सु॒ युध्य॑न् ।
त॒त॒क्षे सूर्या॑य चि॒दोक॑सि॒ स्वे वृषा॑ स॒मत्सु॑ दा॒सस्य॒ नाम॑ चित् ॥

पदपाठः

पु॒रु । यत् । ते॒ । इ॒न्द्र॒ । सन्ति॑ । उ॒क्था । गवे॑ । च॒कर्थ॑ । उ॒र्वरा॑सु । युध्य॑न् ।
त॒त॒क्षे । सूर्या॑य । चि॒त् । ओक॑सि । स्वे । वृषा॑ । स॒मत्ऽसु॑ । दा॒सस्य॑ । नाम॑ । चि॒त् ॥

सायणभाष्यम्

हेइन्द्र ते तव यद्यदास्वभूतानि पुरु पुरूणि बहूनि उक्था उक्थानिशस्त्रांणसन्ति तदा उर्वरासु सस्योपेतासुभूमिषु निमित्तभूतासु गवे वृष्ट्युदकाय युध्यन् जलप्रतिबन्धकान् संहरन् चकर्थ करोषि भेदनं कुत्रेतिसूर्याय सूर्यस्यस्वेस्वकीयेओकसिस्थाने वृषा वर्षितासन् ततक्षे भेदनं संपादयसि समत्सु संग्रामेषु दासस्य वृष्टिप्रतिबन्धकर्तुरेतन्नामकस्यासुरस्य नामचित् नामापि ततक्षे नाशयसीत्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः