मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३३, ऋक् ५

संहिता

व॒यं ते त॑ इन्द्र॒ ये च॒ नर॒ः शर्धो॑ जज्ञा॒ना या॒ताश्च॒ रथा॑ः ।
आस्माञ्ज॑गम्यादहिशुष्म॒ सत्वा॒ भगो॒ न हव्य॑ः प्रभृ॒थेषु॒ चारु॑ः ॥

पदपाठः

व॒यम् । ते । ते॒ । इ॒न्द्र॒ । ये । च॒ । नरः॑ । शर्धः॑ । ज॒ज्ञा॒नाः । या॒ताः । च॒ । रथाः॑ ।
आ । अ॒स्मान् । ज॒ग॒म्या॒त् । अ॒हि॒ऽशु॒ष्म॒ । सत्वा॑ । भगः॑ । न । हव्यः॑ । प्र॒ऽभृ॒थेषु॑ । चारुः॑ ॥

सायणभाष्यम्

हेइन्द्र येचनरः कर्मणांनेतारऋत्विग्यजमानाः वयंस्मः तेवयं ते त्वदीयाः कीदृशावयं शधोंबलंजज्ञानाः उत्पादयन्तः स्तुतिभिः याताश्चहोतुंत्वांप्राप्ताश्च रथाः रंहणशीलाश्च किंच हेअहिशुष्मअहिरयनात् सर्वतोव्याप्तबलेन्द्र त्वदनुग्रहात् हव्यः स्तुत्यः प्रतिभटैराह्वातव्योवा चारुः संगंता सत्वाभृत्यादिः प्रभृथेषुसंग्रामेषुवा अस्मानाजगम्यात आगच्छेत् भगोन भगइव हव्यश्चारुः भगदेवोयथास्मत्सहायआगच्छति तथा भृत्यादिरागच्छेदित्यर्थः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः