मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३३, ऋक् ६

संहिता

प॒पृ॒क्षेण्य॑मिन्द्र॒ त्वे ह्योजो॑ नृ॒म्णानि॑ च नृ॒तमा॑नो॒ अम॑र्तः ।
स न॒ एनीं॑ वसवानो र॒यिं दा॒ः प्रार्यः स्तु॑षे तुविम॒घस्य॒ दान॑म् ॥

पदपाठः

प॒पृ॒क्षेण्य॑म् । इ॒न्द्र॒ । त्वे इति॑ । हि । ओजः॑ । नृ॒म्णानि॑ । च॒ । नृ॒तमा॑नः । अम॑र्तः ।
सः । नः॒ । एनी॑म् । व॒स॒वा॒नः॒ । र॒यिम् । दाः॒ । प्र । अ॒र्यः । स्तु॒षे॒ । तु॒वि॒ऽम॒घस्य॑ । दान॑म् ॥

सायणभाष्यम्

हेइन्द्र पपृक्षेण्यं संपर्कार्हं पूज्यंवा ओजोबलंत्वेहि त्वयिखलु त्वदधीनमित्यर्थः नृतमानोनृत्यन्नमर्तोमरणधर्मा सत्वं वसवानः आच्छादयन् स्वतेजसाजगत् नृम्णानि नृमणानि द्रविणानि वक्ष्यमाणरय्यपेक्षयाचशब्दः एनीं एनवर्णां श्वेतवर्णां नोस्मभ्यंरयिंधनंदाः देहि अहंच अर्यईश्वरस्यतुविमघ्रस्य प्रभूतधनस्यचदानंप्रस्तुषे स्तौमि ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः