मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३३, ऋक् ७

संहिता

ए॒वा न॑ इन्द्रो॒तिभि॑रव पा॒हि गृ॑ण॒तः शू॑र का॒रून् ।
उ॒त त्वचं॒ दद॑तो॒ वाज॑सातौ पिप्री॒हि मध्व॒ः सुषु॑तस्य॒ चारो॑ः ॥

पदपाठः

ए॒व । नः॒ । इ॒न्द्र॒ । ऊ॒तिऽभिः॑ । अ॒व॒ । पा॒हि । गृ॒ण॒तः । शू॒र॒ । का॒रून् ।
उ॒त । त्वच॑म् । दद॑तः । वाज॑ऽसातौ । पि॒प्री॒हि । मध्वः॑ । सुऽसु॑तस्य । चारोः॑ ॥

सायणभाष्यम्

हेशूरेन्द्र एव एवं नोस्मान्गृणतः स्तुवतः कारून् कर्तॄन् ऋत्विजः ऊतिभिः रक्षणैः अवपाहि अवपालय उतापिच वाजसातौ संग्रामे त्वचं आच्छादकंरूपंददतः प्रयच्छतः सुषुतस्यसुष्ठ्वभिषुतस्यचारोर्मनोहरस्यमध्वः सोमस्य पिप्रीहि प्रीणयात्मानं द्वितीयार्थेषष्ठी उक्तलक्षणंसोमंपिबेत्यर्थः अथवा तृतीयार्थेषष्ठी उक्तलक्षणेनसोमपानेनप्रीणय ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः