मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३३, ऋक् ८

संहिता

उ॒त त्ये मा॑ पौरुकु॒त्स्यस्य॑ सू॒रेस्त्र॒सद॑स्योर्हिर॒णिनो॒ ररा॑णाः ।
वह॑न्तु मा॒ दश॒ श्येता॑सो अस्य गैरिक्षि॒तस्य॒ क्रतु॑भि॒र्नु स॑श्चे ॥

पदपाठः

उ॒त । त्ये । मा॒ । पौ॒रु॒ऽकु॒त्स्यस्य॑ । सू॒रेः । त्र॒सद॑स्योः । हि॒र॒णिनः॑ । ररा॑णाः ।
वह॑न्तु । मा॒ । दश॑ । श्येता॑सः । अ॒स्य॒ । गै॒रि॒ऽक्षि॒तस्य॑ । क्रतु॑ऽभिः । नु । स॒श्चे॒ ॥

सायणभाष्यम्

त्रसदुस्युश्चविदथोध्वन्यश्चेतित्रयोनृपाः अश्वान् धनानिगाश्चादुरृषये त्द्वदत्यृषिः उतअपिच त्ये ते मा चतुर्थ्यर्थेद्वितीया मह्यमित्यर्थः रराणाःरातेर्दानार्थस्यकर्मणिलिटः कानचिरूपं दत्ताइत्यर्थः पौरुकुत्स्यस्य पुरुकुत्सापत्यस्य सूरेः प्रेरकस्य हिरणिनोहिरण्यवतोस्य त्रसदस्योः एतन्नामकस्यराजर्षेः गैरिक्षितस्य मिरिक्षितगोत्रोत्पन्नस्य श्येतासः शुभ्रवर्णाः दशाश्वाः मा मां वहन्तु प्रापयन्तु अहंचक्रतुभिः कर्मभीरथयोजनादिभिः यज्ञादिभिर्वानु क्षिप्रं सश्चे गच्छेयम् ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः