मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३३, ऋक् ९

संहिता

उ॒त त्ये मा॑ मारु॒ताश्व॑स्य॒ शोणा॒ः क्रत्वा॑मघासो वि॒दथ॑स्य रा॒तौ ।
स॒हस्रा॑ मे॒ च्यव॑तानो॒ ददा॑न आनू॒कम॒र्यो वपु॑षे॒ नार्च॑त् ॥

पदपाठः

उ॒त । त्ये । मा॒ । मा॒रु॒तऽअ॑श्वस्य । शोणाः॑ । क्रत्वा॑ऽमघासः । वि॒दथ॑स्य । रा॒तौ ।
स॒हस्रा॑ । मे॒ । च्यव॑तानः । ददा॑नः । आ॒नू॒कम् । अ॒र्यः । वपु॑षे । न । आ॒र्च॒त् ॥

सायणभाष्यम्

उत अपिच त्ये येअश्वाः वक्ष्यमाणाः मारुताश्वस्य मरुत्सदृशवेगाश्ववान् मरुताश्वः तदपत्यस्यविदथस्यैतन्नामकस्यराज्ञःशोणाः शोणवर्णाः क्रत्वामघासः क्रतुनाकर्मणाशीघ्रगमनादिलक्षणेनमहनीयाः अश्वाः रातौदानेविनियुक्तामांवहन्तीतिशेषः किंच सहस्रा सहस्राणि अपरिमितानिधानानिअर्यः पूज्यस्य मे च्तुर्थ्यर्थेषष्ठी पूज्याय मह्यंच्यवतानः च्यावयन् ददानः प्रयच्छन् सः आनूकं आभरणंच वपुषे स्वशरीरालंकाराय आर्चत् प्रायच्छत् नेतिचार्थे ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः