मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३३, ऋक् १०

संहिता

उ॒त त्ये मा॑ ध्व॒न्य॑स्य॒ जुष्टा॑ लक्ष्म॒ण्य॑स्य सु॒रुचो॒ यता॑नाः ।
म॒ह्ना रा॒यः सं॒वर॑णस्य॒ ऋषे॑र्व्र॒जं न गाव॒ः प्रय॑ता॒ अपि॑ ग्मन् ॥

पदपाठः

उ॒त । त्ये । मा॒ । ध्व॒न्य॑स्य । जुष्टाः॑ । ल॒क्ष्म॒ण्य॑स्य । सु॒ऽरुचः॑ । यता॑नाः ।
म॒ह्ना । रा॒यः । स॒म्ऽवर॑णस्य । ऋषेः॑ । व्र॒जम् । न । गावः॑ । प्रऽय॑ताः । अपि॑ । ग्म॒न् ॥

सायणभाष्यम्

उतापिच त्ये ते वक्ष्यमाणारायः ध्वन्यस्य ध्वन्यनामकस्यलक्ष्मण्यस्य लक्ष्मणपुत्रस्य राज्ञःसंबन्धिनोश्वाः जुष्ठाः मांप्राप्ताः सुरुचः शोभनदीप्तयः यतानाः वहमानाययतमानाः रायः मह्नामहत्त्वेनयुक्तारायः प्रयताः दत्ताः सत्यः संवरणस्यऋषेःअपिग्मन् अपिगताः प्राप्तामद्गृहमितिशेषःव्रजंनगावः गोष्ठंगावइव यद्वा नेतिचार्थे गावश्चममव्रजंअपिग्मन् अत्रैन्द्रेसूक्तेप्रायेणैन्द्रमरुतोराज्ञांचदानस्तुतय -इत्युक्तत्वाद्राज्ञांदानस्तुतिरविरुद्धा ॥ १० ॥

अजातश मितिनवर्चंद्वितीयंसूक्तं प्राजापत्यस्यसंवरणस्यार्षमैन्द्रं नवमीत्रिष्टुप् शिष्टास्त्रिष्टुबन्तपरिभाषयाजगत्यः अजातशत्रुंनवत्रिष्टुबन्तमित्युनुक्रमणिका । विनियोगोलैंगिकः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः