मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३४, ऋक् ३

संहिता

यो अ॑स्मै घ्रं॒स उ॒त वा॒ य ऊध॑नि॒ सोमं॑ सु॒नोति॒ भव॑ति द्यु॒माँ अह॑ ।
अपा॑प श॒क्रस्त॑त॒नुष्टि॑मूहति त॒नूशु॑भ्रं म॒घवा॒ यः क॑वास॒खः ॥

पदपाठः

यः । अ॒स्मै॒ । घ्रं॒से । उ॒त । वा॒ । यः । ऊध॑नि । सोम॑म् । सु॒नोति॑ । भव॑ति । द्यु॒ऽमान् । अह॑ ।
अप॑ऽअप । श॒क्रः । त॒त॒नुष्टि॑म् । ऊ॒ह॒ति॒ । त॒नूऽशु॑भ्रम् । म॒घऽवा॑ । यः । क॒व॒ऽस॒खः ॥

सायणभाष्यम्

योयजमानः अस्मैइन्द्राय घ्रंसे अहर्नामैतत् गृह्यन्तेस्मिन्त्रसाइतिघ्रंसः तस्मिन् उतवा अथवा योयजमानः ऊधनि उद्धततरंभवति उन्नद्धमितिवाऊधोरात्रिः स्नेहप्रदानरसाभ्यामूधसि रात्रौच समत्वात् रात्रेरप्यूधउच्यते अहनिरात्रौच सोमंसुनोति सभवतिद्युमान् दीप्तिमान् अहेति विनिग्रहार्थीयः किंच शक्रः शक्तोयमिन्द्रः ततनुष्टिं ततं धर्मसन्ततिं नुदति वष्टि कामयते कामानितिततनुष्टिः तंतनूशुभ्रं तनूः शुभ्राशोभनीयालंकारादिभिर्यस्यतंतादृशं स्वपोषकमयज्वानं अपोहति अपरोपशब्दःपूरणः मघवा धनवान् यःकवासखःकुत्सितपुरुषसहायः तमपोहतीति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः