मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३४, ऋक् ४

संहिता

यस्याव॑धीत्पि॒तरं॒ यस्य॑ मा॒तरं॒ यस्य॑ श॒क्रो भ्रात॑रं॒ नात॑ ईषते ।
वेतीद्व॑स्य॒ प्रय॑ता यतंक॒रो न किल्बि॑षादीषते॒ वस्व॑ आक॒रः ॥

पदपाठः

यस्य॑ । अव॑धीत् । पि॒तर॑म् । यस्य॑ । मा॒तर॑म् । यस्य॑ । श॒क्रः । भ्रात॑रम् । न । अतः॑ । ई॒ष॒ते॒ ।
वेति॑ । इत् । ऊं॒ इति॑ । अ॒स्य॒ । प्रऽय॑ता । य॒त॒म्ऽक॒रः । न । किल्बि॑षात् । ई॒ष॒ते॒ । वस्वः॑ । आ॒ऽक॒रः ॥

सायणभाष्यम्

शक्रः शक्तोयं यस्यध्यज्वनः पितरं अवधीत् हतवान् यस्यचमातरंअवधीत् यस्य चभ्रातरं अतोस्मात् अयज्वनः सकाशात् नेषते नविभेति नगच्छतिवा किंत्वस्यप्रयता प्रदत्तानिहवींषि वेतीदु कामयतएव अयज्वानं शिक्षयित्वानियोजयतीत्यर्थः यतंकरः यमनकर्ता वस्वोवसुनोधनस्य आकरः आभिमुख्यकर्तायः किल्बिषात् पित्रादिधनयुक्तात् नेषते नचलति नबिभेतिवा इन्द्रस्यास्तोतॄणांहतिरिन्द्रोयतीन् सालावृकेभ्यः प्रायच्छमित्यादिश्रु तिषुप्रसिद्धः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः