मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३४, ऋक् ५

संहिता

न प॒ञ्चभि॑र्द॒शभि॑र्वष्ट्या॒रभं॒ नासु॑न्वता सचते॒ पुष्य॑ता च॒न ।
जि॒नाति॒ वेद॑मु॒या हन्ति॑ वा॒ धुनि॒रा दे॑व॒युं भ॑जति॒ गोम॑ति व्र॒जे ॥

पदपाठः

न । प॒ञ्चऽभिः॑ । द॒शऽभिः॑ । व॒ष्टि॒ । आ॒ऽरभ॑म् । न । असु॑न्वता । स॒च॒ते॒ । पुष्य॑ता । च॒न ।
जि॒नाति॑ । वा॒ । इत् । अ॒मु॒या । हन्ति॑ । वा॒ । धुनिः॑ । आ । दे॒व॒ऽयुम् । भ॒ज॒ति॒ । गोऽम॑ति । व्र॒जे ॥

सायणभाष्यम्

अयमिन्द्रः पंचभिर्दशभिर्वासहायैरारभं आरभंशत्रुहननायालंबनंनवष्टि साहाय्यं नापेक्षतइत्यर्थः यद्वा अमुमिन्द्रं पंचभिर्दशभिर्वायज्ञादन्यैरुपायैरारभमारब्धमुद्योगंकर्तुंनवष्टि नकामयते असुन्वता अभिषवमकुर्वता सहपुष्यताच न बंध्वादीनपोषयतापि नसचते नसंगच्छते असुन्वंतं अभिषवमकुर्वता सहपुष्यताच न बंध्वादीनपोषयतापि नसचते नसंगच्छते असुन्वंतं अभिषवमकुर्वाणं अयष्टारं अपिष्णंतंचनप्राप्नोतीत्यर्थः नकेवलमप्राप्तिमात्रं किंतु जिनातिवा वाशब्दश्चार्थे जिनातिच बाधते इदितिपूरणः हन्तिवामुया अमुमयष्टारं धुनिः कंपकःशत्रूणां देवयुंदेवमिन्द्रंकामयमानं यजमानं गोमति व्रजे आभजति जयती त्यर्थः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः