मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३४, ऋक् ६

संहिता

वि॒त्वक्ष॑ण॒ः समृ॑तौ चक्रमास॒जोऽसु॑न्वतो॒ विषु॑णः सुन्व॒तो वृ॒धः ।
इन्द्रो॒ विश्व॑स्य दमि॒ता वि॒भीष॑णो यथाव॒शं न॑यति॒ दास॒मार्य॑ः ॥

पदपाठः

वि॒ऽत्वक्ष॑णः । सम्ऽऋ॑तौ । च॒क्र॒म्ऽआ॒स॒जः । असु॑न्वतः । विषु॑णः । सु॒न्व॒तः । वृ॒धः ।
इन्द्रः॑ । विश्व॑स्य । द॒मि॒ता । वि॒ऽभीष॑णः । य॒था॒ऽव॒शम् । न॒य॒ति॒ । दास॑म् । आर्यः॑ ॥

सायणभाष्यम्

समृतौसंग्रामेवित्वक्षणः विशेषेणतनूकर्ताशत्रूणांतदर्थंचक्रमासजः रथचक्रस्यासंजयिता असुन्वतोयजमानस्यविषुणः पराङ्मुखः सुन्वतोयजमानस्यवृधोवर्धयिताइन्द्रोविश्वस्यदमिताशिक्षयिताविभीषणः भयजनकः आर्यः स्वामी यथावशंयथेच्छंदासंदासकर्माणं -जनंनयतिस्ववशम् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः