मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३४, ऋक् ८

संहिता

सं यज्जनौ॑ सु॒धनौ॑ वि॒श्वश॑र्धसा॒ववे॒दिन्द्रो॑ म॒घवा॒ गोषु॑ शु॒भ्रिषु॑ ।
युजं॒ ह्य१॒॑न्यमकृ॑त प्रवेप॒न्युदीं॒ गव्यं॑ सृजते॒ सत्व॑भि॒र्धुनि॑ः ॥

पदपाठः

सम् । यत् । जनौ॑ । सु॒ऽधनौ॑ । वि॒श्वऽश॑र्धसौ । अवे॑त् । इन्द्रः॑ । म॒घऽवा॑ । गोषु॑ । शु॒भ्रिषु॑ ।
युज॑म् । हि । अ॒न्यम् । अकृ॑त । प्र॒ऽवे॒प॒नी । उत् । ई॒म् । गव्य॑म् । सृ॒ज॒ते॒ । सत्व॑ऽभिः । धुनिः॑ ॥

सायणभाष्यम्

समवेत् संजानाति यद्यदाजनौपरस्परप्रतिद्वंद्विनौ सुधनौ शोभनधनौ विश्वशर्धसौ व्याप्तबलौ बहूत्साहौवा तदा मघवाधनवानिन्द्रोगोषुशुभ्रिषुशोभनासुगोषुनिमित्तभूतासुअन्यंयष्टारंयुजं सहायमक्रुतकृतवान् प्रवेपनीशत्रूणांप्रवेपनवान् ईमस्मै गव्यंगोसमूहं उत्सृजते सत्वभिर्मरुद्भिः सहधुनिःमेघानांकंपयितेन्द्रः यजमानमयजमानंवायंजानातिगोनिमित्तंज्ञात्वायज्वनेगोसमूहं प्रयच्छतीत्यर्थः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः