मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३५, ऋक् १

संहिता

यस्ते॒ साधि॒ष्ठोऽव॑स॒ इन्द्र॒ क्रतु॒ष्टमा भ॑र ।
अ॒स्मभ्यं॑ चर्षणी॒सहं॒ सस्निं॒ वाजे॑षु दु॒ष्टर॑म् ॥

पदपाठः

यः । ते॒ । साधि॑ष्ठः । अव॑से । इन्द्र॑ । क्रतुः॑ । तम् । आ । भ॒र॒ ।
अ॒स्मभ्य॑म् । च॒र्ष॒णि॒ऽसह॑म् । सस्नि॑म् । वाजे॑षु । दु॒स्तर॑म् ॥

सायणभाष्यम्

हेइन्द्र ते तव यः साधिष्ठोतिशयेनसाधकः क्रतुरुक्तलक्षणंकर्मप्रज्ञावास्ति तंक्रतुंनोवसेस्मद्रक्षणायास्मभ्यं आभर आहर कीदृशंतं चषर्णीसहं सर्वेषांमनुष्यणामभिभवितारंसस्निंसंस्नातं शुद्धं वाजेषुसंग्रामेषुदुष्टरं अन्यैरनभिभाव्यम् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः