मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३५, ऋक् २

संहिता

यदि॑न्द्र ते॒ चत॑स्रो॒ यच्छू॑र॒ सन्ति॑ ति॒स्रः ।
यद्वा॒ पञ्च॑ क्षिती॒नामव॒स्तत्सु न॒ आ भ॑र ॥

पदपाठः

यत् । इ॒न्द्र॒ । ते॒ । चत॑स्रः । यत् । शू॒र॒ । सन्ति॑ । ति॒स्रः ।
यत् । वा॒ । पञ्च॑ । क्षि॒ती॒नाम् । अवः॑ । तत् । सु । नः॒ । आ । भ॒र॒ ॥

सायणभाष्यम्

हेइन्द्र ते तव यत् याऊतयः चतस्रः चतसृषुवर्णेषुसंश्रिताःसन्ति याश्चहेशूर तिस्रः त्रिषु लोकेषुवर्तमानाः यद्वा वाशब्दश्चार्थे यत् याश्चपंचक्षितीनांपंचजनसंबन्धिन्यऊतयः सन्ति अवोरक्षणंतत्सर्वं सुसुष्ठुनोस्मभ्यमाभर आहरेति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः