मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३५, ऋक् ३

संहिता

आ तेऽवो॒ वरे॑ण्यं॒ वृष॑न्तमस्य हूमहे ।
वृष॑जूति॒र्हि ज॑ज्ञि॒ष आ॒भूभि॑रिन्द्र तु॒र्वणि॑ः ॥

पदपाठः

आ । ते॒ । अवः॑ । वरे॑ण्यम् । वृष॑न्ऽतमस्य । हू॒म॒हे॒ ।
वृष॑ऽजूतिः । हि । ज॒ज्ञि॒षे । आ॒ऽभूभिः॑ । इ॒न्द्र॒ । तु॒र्वणिः॑ ॥

सायणभाष्यम्

हेइन्द्र वृषन्तमस्यफलानांवर्षकतमस्यतेतवावोरक्षणं गमनंवा वरेण्यं वरणीयमाहूमहे आह्वयामः हेइन्द्र वृषजूतिः वर्षणगमनः तुर्वणिस्तूर्णवनिर्हिंसकोवात्वं आभूभिः सर्वतोभवद्भिः व्याप्तैर्मरुद्भिः सहावोहि जज्ञिषे उत्पादयसिखलु तेअवआह्वयामहति यद्वा वृषगमनःसन् अद्ययज्ञमागत्यफलंजज्ञिषे तस्मात्तेवोहूमहइति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः