मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३५, ऋक् ४

संहिता

वृषा॒ ह्यसि॒ राध॑से जज्ञि॒षे वृष्णि॑ ते॒ शवः॑ ।
स्वक्ष॑त्रं ते धृ॒षन्मनः॑ सत्रा॒हमि॑न्द्र॒ पौंस्य॑म् ॥

पदपाठः

वृषा॑ । हि । असि॑ । राध॑से । ज॒ज्ञि॒षे । वृष्णि॑ । ते॒ । शवः॑ ।
स्वऽक्ष॑त्रम् । ते॒ । धृ॒षत् । मनः॑ । स॒त्रा॒ऽहम् । इ॒न्द्र॒ । पौंस्य॑म् ॥

सायणभाष्यम्

हेइन्द्र राधसे यजमानानांसमृद्धये वृषाह्यसि फलस्यवर्षकोसिखलु यद्वा वृषाखल्वसि राधसेधनार्थंजज्ञिषे उत्पद्यसे तेशवोबलंवृष्णिवर्षितृ तेमनःस्वक्षत्रंस्वायत्तबलंधृषत् धर्षकंविरोधिनां हेइन्द्र तेपौंस्यं पुंस्त्वं सत्राहं संघहन्तृ ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः