मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३५, ऋक् ५

संहिता

त्वं तमि॑न्द्र॒ मर्त्य॑ममित्र॒यन्त॑मद्रिवः ।
स॒र्व॒र॒था श॑तक्रतो॒ नि या॑हि शवसस्पते ॥

पदपाठः

त्वम् । तम् । इ॒न्द्र॒ । मर्त्य॑म् । अ॒मि॒त्र॒ऽयन्त॑म् । अ॒द्रि॒ऽवः॒ ।
स॒र्व॒ऽर॒था । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । नि । या॒हि॒ । श॒व॒सः॒ । प॒ते॒ ॥

सायणभाष्यम्

हेइन्द्र त्वं तममित्रयन्तं शत्रुत्वमाचरन्तं शत्रुंवाइच्छंतंमर्त्यं हेअद्रिवोवज्रवन्निन्द्र सर्वरथासर्वत्रव्याप्तेनरथेन सुपांसुलुगित्याकारः हेशतक्रतो हेशवसस्पते बलस्यपालकेन्द्र नियाहि नितरांगच्छ अभिभवितुम् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः