मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३५, ऋक् ६

संहिता

त्वामिद्वृ॑त्रहन्तम॒ जना॑सो वृ॒क्तब॑र्हिषः ।
उ॒ग्रं पू॒र्वीषु॑ पू॒र्व्यं हव॑न्ते॒ वाज॑सातये ॥

पदपाठः

त्वाम् । इत् । वृ॒त्र॒ह॒न्ऽत॒म॒ । जना॑सः । वृ॒क्तऽब॑र्हिषः ।
उ॒ग्रम् । पू॒र्वीषु॑ । पू॒र्व्यम् । हव॑न्ते । वाज॑ऽसातये ॥

सायणभाष्यम्

हेवृत्रहन्तम अतिशयेनशत्रूणांहन्तरिन्द्र त्वामित् त्वामेवजनासोजनाः वृक्तबर्हिषः आच्छादितदर्भाः प्रवृत्तयज्ञाइत्यर्थः उग्रमुद्भूर्णबल पूर्वीषुबह्वीषुप्रजासुमध्ये पूर्व्यं पुरातनं सन्तं वाजसातये संग्रामान हवेन्ते आह्वयन्ते ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः