मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३६, ऋक् १

संहिता

स आ ग॑म॒दिन्द्रो॒ यो वसू॑नां॒ चिके॑त॒द्दातुं॒ दाम॑नो रयी॒णाम् ।
ध॒न्व॒च॒रो न वंस॑गस्तृषा॒णश्च॑कमा॒नः पि॑बतु दु॒ग्धमं॒शुम् ॥

पदपाठः

सः । आ । ग॒म॒त् । इन्द्रः॑ । यः । वसू॑नाम् । चिके॑तत् । दातु॑म् । दाम॑नः । र॒यी॒णाम् ।
ध॒न्व॒ऽच॒रः । न । वंस॑गः । तृ॒षा॒णः । च॒क॒मा॒नः । पि॒ब॒तु॒ । दु॒ग्धम् । अं॒शुम् ॥

सायणभाष्यम्

सइन्द्रोस्मद्यज्ञंप्रत्यागमदागच्छतु योदेवोवसूनांधनानां कर्मणिषष्ठी वसूनिधनानिचिकेतत् जानातिप्रदातुं सकीदृशः दामनादातादानमनावारयीणांधनानां गमनेदृष्टान्तः-धन्वचरोन धमुषासहसंचरन् धानुष्कइव वंसगोवननीयगमनः तृषाणः अत्यंतंतृषितः चकमानः कामयमानश्चसन् दुग्धं अभिषुतमंसुंसोमंपिबतु ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः