आ ते॒ हनू॑ हरिवः शूर॒ शिप्रे॒ रुह॒त्सोमो॒ न पर्व॑तस्य पृ॒ष्ठे ।
अनु॑ त्वा राज॒न्नर्व॑तो॒ न हि॒न्वन्गी॒र्भिर्म॑देम पुरुहूत॒ विश्वे॑ ॥
आ । ते॒ । हनू॒ इति॑ । ह॒रि॒ऽवः॒ । शू॒र॒ । शिप्रे॒ इति॑ । रुह॑त् । सोमः॑ । न । पर्व॑तस्य । पृ॒ष्ठे ।
अनु॑ । त्वा॒ । रा॒ज॒न् । अर्व॑तः । न । हि॒न्वन् । गीः॒ऽभिः । म॒दे॒म॒ । पु॒रु॒ऽहू॒त॒ । विश्वे॑ ॥
हेइन्द्र हेहरिवः हरिभ्यांतद्वन् शूर ते तव हनू हननसाधने यद्यप्ययंशिप्रावचनः तथापि पुनः शिप्राभिधानाद्गौणोवगन्तव्यः उक्तरूपेसंहतेवाशिप्रे आरुहत् आरोहतु प्राप्नोतु सोमोस्मद्दत्तः पर्वतस्यपृष्ठेनरुहत् नारोहति तत्रनतिष्ठतीत्यर्थः यद्वा नशब्दः पुरस्तात्प्रयुक्तोप्यत्रोपमार्थः पर्ततस्यपृष्ठे उपरिप्रदेशे सोमोनतत्रयथाविस्रंभेणप्रसरतितद्वत् हेराजन् राजमानेन्द्र त्वा त्वामनु त्वयासह तृतीयार्थइत्यनोः कर्मप्रवचनीयत्वं विश्वेवयमर्वतोन अश्वानिव तृणादिभिः गीर्भिः स्तुतिभिर्हिन्वन् हिन्वन्तः त्वांप्रीणयन्तः सन्तोमदेम हृष्येम हेपुरुहूत बहुप्रकारंबहुभिर्वाहूतेन्द्र ॥ २ ॥