मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३६, ऋक् ४

संहिता

ए॒ष ग्रावे॑व जरि॒ता त॑ इ॒न्द्रेय॑र्ति॒ वाचं॑ बृ॒हदा॑शुषा॒णः ।
प्र स॒व्येन॑ मघव॒न्यंसि॑ रा॒यः प्र द॑क्षि॒णिद्ध॑रिवो॒ मा वि वे॑नः ॥

पदपाठः

ए॒षः । ग्रावा॑ऽइव । ज॒रि॒ता । ते॒ । इ॒न्द्र॒ । इय॑र्ति । वाच॑म् । बृ॒हत् । आ॒शु॒षा॒णः ।
प्र । से॒व्येन॑ । म॒घ॒ऽव॒न् । यंसि॑ । रा॒यः । प्र । द॒क्षि॒णित् । ह॒रि॒ऽवः॒ । मा । वि । वे॒नः॒ ॥

सायणभाष्यम्

एषजरितागरितास्तोताग्रावेव अभिषवाश्मेव सयथारसंजनयतितद्वत् हेइन्द्र तेतुभ्यंवाचंस्तुतिं इयर्ति प्रेरयतीत्यर्थः बृहत् महत् प्रभूतंफलंआशुषाणः आशुसंभक्तासन् हेमघवन् सव्येनहस्तेन रायोधनानि प्रयंसि प्रयच्छसि हेहरिवः हर्यश्वेन्द्र दक्षिणित् दक्षिणेनापिप्रयंसीतिशेषः माविवेनः विगतकामंमाकार्षीः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः